Sukta 4.6
अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः । ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥
अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्म॒न्द्रो वि॒दथे॑षु॒ प्रचे॑ताः । ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्याम् ॥
amū́ro hotā́ ny asādi víkṣv agnír mandró vidátheṣu prá-cetāḥ | ūrdhvám bhānúṃ savitévā́śret métāiva dhūmáṃ stabhāyád úpa dyā́m ||
The unbewildered Hotṛ has taken his seat among the peoples; Agni, the rapturous one, is wide-awake in the gatherings. He lifted his ray upward like Savitṛ, and like a measurer he propped his smoke up toward heaven.
अमू॑रः । होता॑ । नि । अ॒सा॒दि॒ । वि॒क्षु । अ॒ग्निः । म॒न्द्रः । वि॒दथे॑षु । प्रऽचे॑ताः । ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ताऽइ॑व । अ॒श्रे॒त् । मेता॑ऽइव । धू॒मम् । स्त॒भा॒य॒त् । उप॑ । द्याम् ॥अमूरः । होता । नि । असादि । विक्षु । अग्निः । मन्द्रः । विदथेषु । प्रचेताः । ऊर्ध्वम् । भानुम् । सविताइव । अश्रेत् । मेताइव । धूमम् । स्तभायत् । उप । द्याम् ॥amūraḥ | hotā | ni | asādi | vikṣu | agniḥ | mandraḥ | vidatheṣu | pra-cetāḥ | ūrdhvam | bhānum | savitāiva | aśret | metāiva | dhūmam | stabhāyat | upa | dyām