Sukta 4.6
ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् । त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥
ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् । त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥
ūrdhvó u ṣú ṇo adhvarasyá hotar agne tíṣṭha deva-tātā́ yajī́yān | tváṃ hí víśvam abhyási mánma prá védhasaś cít tirási manīṣā́m ||
Rise up indeed for us, O Hotṛ of the sacrifice; stand, O Agni, establisher of the gods, most worthy of offering. For thou encompassest all our thought and art the discerning insight of the inspired—thou bearest forward the power of understanding.
ऊ॒र्ध्वः । ऊँ॒ इति॑ । सु । नः॒ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । अग्ने॑ । तिष्ठ॑ । दे॒वऽता॑ता । यजी॑यान् । त्वम् । हि । विश्व॑म् । अ॒भि । असि॑ । मन्म॑ । प्र । वे॒धसः॑ । चि॒त् । ति॒र॒सि॒ । म॒नी॒षाम् ॥ऊर्ध्वः । ऊँ इति । सु । नः । अध्वरस्य । होतः । अग्ने । तिष्ठ । देवताता । यजीयान् । त्वम् । हि । विश्वम् । अभि । असि । मन्म । प्र । वेधसः । चित् । तिरसि । मनीषाम् ॥ūrdhvaḥ | oṃ iti | su | ṇaḥ | adhvarasya | hotaḥ | agne | tiṣṭha | deva-tātā | yajīyān | tvam | hi | viśvam | abhi | asi | manma | pra | vedhasaḥ | cit | tirasi | manīṣām