Sukta 4.6
अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः । होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥
अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः । होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यन्त॑ उ॒शिज॒: शंस॑मा॒योः ॥
akā́ri bráhma sam-idhāná túbhyaṃ śáṃsāti uktháṃ yájate ví ūṃ iti dhāḥ | hótāram agníṃ mánuṣo ní ṣeduḥ namasyánta uśíjaḥ śáṃsam āyóḥ ||
The Word has been fashioned for thee as thou art kindled; the hymn of praise declares and the sacrificer sets it forth in due order. Men have sat down before Agni the Priest, bowing in adoration, the eager ones seeking the laud of Ayu.
अका॑रि । ब्रह्म॑ । स॒म्ऽइ॒धा॒न॒ । तुभ्य॑म् । शंसा॑ति । उ॒क्थम् । यज॑ते । वि । ऊँ॒ इति॑ । धाः॒ । होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । न॒म॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥अकारि । ब्रह्म । सम्इधान । तुभ्यम् । शंसाति । उक्थम् । यजते । वि । ऊँ इति । धाः । होतारम् । अग्निम् । मनुषः । नि । सेदुः । नमस्यन्तः । उशिजः । शंसम् । आयोः ॥akāri | brahma | sam-idhāna | tubhyam | śaṃsāti | uktham | yajate | vi | oṃ iti | dhāḥ | hotāram | agnim | manuṣaḥ | ni | seduḥ | namasyantaḥ | uśijaḥ | śaṃsam | āyoḥ