Sukta 4.58
कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥
क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भि चा॑कशीमि । यत्र॒ सोम॑: सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥
kanyā́ iva vahatúm etávā u áñjy-añjānā abhí cākaśīmi | yátra sómaḥ sūyáte yátra yajñó ghṛtásya dhā́rā abhí tát pavante ||
Like maidens going to the bridal procession, anointing themselves, I gaze upon them as they move. Where Soma is pressed out, where the yajña is established, there the streams of ghee flow toward That (the supreme goal).
क॒न्याः॑ऽइव । व॒ह॒तुम् । एत॒वै । ऊँ॒ इति॑ । अ॒ञ्जि । अ॒ञ्जा॒नाः । अ॒भि । चा॒क॒शी॒मि॒ । यत्र॑ । सोमः॑ । सू॒यते॑ । यत्र॑ । य॒ज्ञः । घृ॒तस्य॑ । धाराः॑ । अ॒भि । तत् । प॒व॒न्ते॒ ॥कन्याःइव । वहतुम् । एतवै । ऊँ इति । अञ्जि । अञ्जानाः । अभि । चाकशीमि । यत्र । सोमः । सूयते । यत्र । यज्ञः । घृतस्य । धाराः । अभि । तत् । पवन्ते ॥kanyāḥ-iva | vahatum | etavai | oṃ iti | añji | añjānāḥ | abhi | cākaśīmi | yatra | somaḥ | sūyate | yatra | yajñaḥ | ghṛtasya | dhārāḥ | abhi | tat | pavante