Sukta 4.58
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥
अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषा॑: कल्या॒ण्य१॒॑: स्मय॑मानासो अ॒ग्निम् । घृ॒तस्य॒ धारा॑: स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥
abhí pravanta sámanā-iva yóṣāḥ kalyā́ṇyaḥ smáyamānāso agním | ghṛtásya dhā́rāḥ samídho nasanta tā́ juṣāṇó haryati jā́ta-vedāḥ ||
They flow toward Agni like women to a common meeting, beautiful, smiling in their coming. The streams of ghee approach as fuel-sticks; and Jātavedas, taking delight in them, leaps upward in glad intensity.
अ॒भि । प्र॒व॒न्त॒ । सम॑नाऽइव । योषाः॑ । क॒ल्या॒ण्यः॑ । स्मय॑मानासः । अ॒ग्निम् । घृ॒तस्य॑ । धाराः॑ । स॒म्ऽइधः॑ । न॒स॒न्त॒ । ताः । जु॒षा॒णः । ह॒र्य॒ति॒ । जा॒तऽवे॑दाः ॥अभि । प्रवन्त । समनाइव । योषाः । कल्याण्यः । स्मयमानासः । अग्निम् । घृतस्य । धाराः । सम्इधः । नसन्त । ताः । जुषाणः । हर्यति । जातवेदाः ॥abhi | pravanta | samanāiva | yoṣāḥ | kalyāṇyaḥ | smayamānāsaḥ | agnim | ghṛtasya | dhārāḥ | sam-idhaḥ | nasanta | tāḥ | juṣāṇaḥ | haryati | jāta-vedāḥ