Sukta 4.58
सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥
सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः । घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभि॒: पिन्व॑मानः ॥
síndhor iva prā́dhvane śū́ghanāso vā́ta-pramiyaḥ patayanti yahvā́ḥ | ghṛtásya dhā́rā aruṣó ná vājī kā́ṣṭhā bhindánn ū́rmibhiḥ pinvámānaḥ ||
Like the Sindhu on its forward course, swift-nosed, driven by the wind, they fly—those uplifted movements. The streams of ghee, like a ruddy steed of plenitude, break through the barriers, swelling with their waves.
सिन्धोः॑ऽइव । प्र॒ऽअ॒ध्व॒ने । शू॒घ॒नासः॑ । वात॑ऽप्रमियः । प॒त॒य॒न्ति॒ । य॒ह्वाः । घृ॒तस्य॑ । धाराः॑ । अ॒रु॒षः । न । वा॒जी । काष्ठाः॑ । भि॒न्दन् । ऊ॒र्मिभिः॑ । पिन्व॑मानः ॥सिन्धोःइव । प्रअध्वने । शूघनासः । वातप्रमियः । पतयन्ति । यह्वाः । घृतस्य । धाराः । अरुषः । न । वाजी । काष्ठाः । भिन्दन् । ऊर्मिभिः । पिन्वमानः ॥sindhoḥ-iva | pra-adhvane | śūghanāsaḥ | vāta-pramiyaḥ | patayanti | yahvāḥ | ghṛtasya | dhārāḥ | aruṣaḥ | na | vājī | kāṣṭhāḥ | bhindan | ūrmibhiḥ | pinvamānaḥ