Sukta 4.58
एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥
ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥
etā́ arṣanti hṛ́dyāt samudrā́c chatá-vrajā ripúṇā náva-cakṣe | ghṛtásya dhā́rā abhí cākaśīmi hiraṇyáyo vetáso mádhya āsām ||
These streams flow from the heart-ocean, a hundred-fold in their courses, unseen by the hostile. I behold the currents of the ghee: a golden reed stands in their midst.
ए॒ताः । अ॒र्ष॒न्ति॒ । हृद्या॑त् । स॒मु॒द्रात् । श॒तऽव्र॑जाः । रि॒पुणा॑ । न । अ॒व॒ऽचक्षे॑ । घृ॒तस्य॑ । धाराः॑ । अ॒भि । चा॒क॒सी॒मि॒ । हि॒र॒ण्ययः॑ । वे॒त॒सः । मध्ये॑ । आ॒सा॒म् ॥एताः । अर्षन्ति । हृद्यात् । समुद्रात् । शतव्रजाः । रिपुणा । न । अवचक्षे । घृतस्य । धाराः । अभि । चाकसीमि । हिरण्ययः । वेतसः । मध्ये । आसाम् ॥etāḥ | arṣanti | hṛdyāt | samudrāt | śata-vrajāḥ | ripuṇā | na | ava-cakṣe | ghṛtasya | dhārāḥ | abhi | cākasīmi | hiraṇyayaḥ | vetasaḥ | madhye | āsām