Sukta 4.58
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥
tridhā́ hitáṃ paṇí-bhir gúhyamānaṃ gávī devā́so ghṛtám ánv avindan | índra ékaṃ sū́rya ékaṃ jajāna venā́d ékaṃ svadháyā níṣ ṭatakṣuḥ ||
Hidden in a threefold way and concealed by the Paṇis, the gods found the ghee within the Cow (the luminous source). Indra brought forth one form, Sūrya another; and one they shaped out by their own inherent power from Vena (the yearning-seer).
त्रिधा॑ । हि॒तम् । प॒णिऽभिः॑ । गु॒ह्यमा॑नम् । गवि॑ । दे॒वासः॑ । घृ॒तम् । अनु॑ । अ॒वि॒न्द॒न् । इन्द्रः॑ । एक॑म् । सूर्यः॑ । एक॑म् । ज॒जा॒न॒ । वे॒नात् । एक॑म् । स्व॒धया॑ । निः । त॒त॒क्षुः॒ ॥त्रिधा । हितम् । पणिभिः । गुह्यमानम् । गवि । देवासः । घृतम् । अनु । अविन्दन् । इन्द्रः । एकम् । सूर्यः । एकम् । जजान । वेनात् । एकम् । स्वधया । निः । ततक्षुः ॥tridhā | hitam | paṇi-bhiḥ | guhyamānam | gavi | devāsaḥ | ghṛtam | anu | avindan | indraḥ | ekam | sūryaḥ | ekam | jajāna | venāt | ekam | svadhayā | niḥ | tatakṣuḥ