Sukta 4.58
वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑:शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥
vayáṃ nā́ma prá bravāma ghṛtásyā́smin yajñé dhārayāmā námo-bhiḥ | úpa brahmā́ śṛṇavac chasyámānaṃ catúḥ-śṛṅgo ’vamīd gáur etát ||
We declare indeed the name of the ghee; in this yajña we uphold it with acts of surrender. May the forming Word (brahmā) hear what is being pronounced; the four-horned Bull has lowed forth this truth.
व॒यम् । नाम॑ । प्र । ब्र॒आ॒म॒ । घृ॒तस्य॑ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः॑ऽभिः । उप॑ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा॑नम् । चतुः॑ऽशृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥वयम् । नाम । प्र । ब्रआम । घृतस्य । अस्मिन् । यज्ञे । धारयाम । नमःभिः । उप । ब्रह्मा । शृणवत् । शस्यमानम् । चतुःशृङ्गः । अवमीत् । गौरः । एतत् ॥vayam | nāma | pra | braāma | ghṛtasya | asmin | yajñe | dhārayāma | namaḥ-bhiḥ | upa | brahmā | śṛṇavat | śasyamānam | catuḥ-śṛṅgaḥ | avamīt | gauraḥ | etat