Sukta 4.58
समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑: ॥
samudrā́d ū́rmir mádhu-mā̃ údārad upā́ṃśunā́ sám amṛta-tváṃ ānaṭ | ghṛtásya nā́ma gúhyaṃ yád ásti jihvā́ devā́nām amṛtásya nā́bhiḥ ||
From the ocean of being a wave of sweetness rises; by the subtle (upāṃśu) pressing it attains the state of immortality. This is the secret name of the ghee: it is the tongue of the gods, the navel-centre of the immortal.
स॒मु॒द्रात् । ऊ॒र्मिः । मधु॑ऽमान् । उत् । आ॒र॒त् । उप॑ । अं॒शुना॑ । सम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒ट् । घृ॒तस्य॑ । नाम॑ । गुह्य॑म् । यत् । अस्ति॑ । जि॒ह्वा । दे॒वाना॑म् । अ॒मृत॑स्य । नाभिः॑ ॥समुद्रात् । ऊर्मिः । मधुमान् । उत् । आरत् । उप । अंशुना । सम् । अमृतत्वम् । आनट् । घृतस्य । नाम । गुह्यम् । यत् । अस्ति । जिह्वा । देवानाम् । अमृतस्य । नाभिः ॥samudrāt | ūrmiḥ | madhu-mān | ut | ārat | upa | aṃśunā | sam | amṛta-tvam | ānaṭ | ghṛtasya | nāma | guhyam | yat | asti | jihvā | devānām | amṛtasya | nābhiḥ