Sukta 4.56
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे । शुची उप प्रशस्तये ॥
प्र वां॒ महि॒ द्यवी॑ अ॒भ्युप॑स्तुतिं भरामहे । शुची॒ उप॒ प्रश॑स्तये ॥
prá vām mahí dyávī abhyúpastutiṃ bharāmahe | śúcī úpa práśastaye ||
Forward we bring to you two, O vast Shining Ones of heaven, our uplifted hymn of approach; for the pure powers, we draw near with a luminous praise that opens the way.
प्र । वा॒म् । महि॑ । द्यवी॒ इति॑ । अ॒भि । उप॑ऽस्तुतिम् । भ॒रा॒म॒हे॒ । शुची॒ इति॑ । उप॑ । प्रऽश॑स्तये ॥प्र । वाम् । महि । द्यवी इति । अभि । उपस्तुतिम् । भरामहे । शुची इति । उप । प्रशस्तये ॥pra | vām | mahi | dyavī iti | abhi | upa-stutim | bharāmahe | śucī iti | upa | pra-śastaye