Sukta 4.56
नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः । उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥
नू रो॑दसी बृ॒हद्भि॑र्नो॒ वरू॑थै॒: पत्नी॑वद्भिरि॒षय॑न्ती स॒जोषा॑: । उ॒रू॒ची विश्वे॑ यज॒ते नि पा॑तं धि॒या स्या॑म र॒थ्य॑: सदा॒साः ॥
nū rodasī bṛhád-bhir no varū́thaiḥ patnī́vadbhir iṣáyantī sajóṣāḥ | urūcī́ víśve yájaté ní pātāṃ dhiyā́ syāma rathyáḥ sadā́sāḥ ||
Now may Heaven-and-Earth protect us with their vast shelters, with their consort-like powers moving in one accord. Wide-shining, worship-worthy for all, may they guard us; and by the inspired thought may we become fit for the journey, steadfast companions of the path.
नु । रो॒द॒सी॒ इति॑ । बृ॒हत्ऽभिः॑ । नः॒ । वरू॑थैः । पत्नी॑वत्ऽभिः । इ॒षय॑न्ती॒ इति॑ । स॒ऽजोषाः॑ । उ॒रू॒ची इति॑ । विश्वे॒ इति॑ । या॒ज॒ते इति॑ । नि । पा॒त॒म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥नु । रोदसी इति । बृहत्भिः । नः । वरूथैः । पत्नीवत्भिः । इषयन्ती इति । सजोषाः । उरूची इति । विश्वे इति । याजते इति । नि । पातम् । धिया । स्याम । रथ्यः । सदासाः ॥nu | rodasī iti | bṛhat-bhiḥ | naḥ | varūthaiḥ | patnīvat-bhiḥ | iṣayantī iti | sa-joṣāḥ | urūcī iti | viśveiti | yājate iti | ni | pātam | dhiyā | syāma | rathyaḥ | sadāsāḥ