Sukta 4.56
स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान । उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥
स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ अवं॒शे धीर॒: शच्या॒ समै॑रत् ॥
sá ít svapā́ bhuvaneṣv āsa yá imé dyāvāpṛthivī́ jajā́na | urvī́ gabhīré rájasī suméke avaṃśé dhīráḥ śácyā sám airat ||
He indeed, the perfect worker, was present in the worlds—he who brought forth these Heaven and Earth. Wide and deep are the two luminous regions, well-fixed; in the unbroken line the seer, by his effective power, set them in harmony.
सः । इत् । सु॒ऽअपाः॑ । भुव॑नेषु । आ॒स॒ । यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । ज॒जान॑ । उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अ॒वं॒शे । धीरः॑ । शच्या॑ । सम् । ऐ॒र॒त् ॥सः । इत् । सुअपाः । भुवनेषु । आस । यः । इमे इति । द्यावापृथिवी इति । जजान । उर्वी इति । गभीरे इति । रजसी इति । सुमेके इति सुमेके । अवंशे । धीरः । शच्या । सम् । ऐरत् ॥saḥ | it | su-apāḥ | bhuvaneṣu | āsa | yaḥ | ime iti | dyāvāpṛthivī iti | jajāna | urvī iti | gabhīre iti | rajasī iti | sumeke itisu-meke | avaṃśe | dhīraḥ | śacyā | sam | airat