Sukta 4.56
देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे । ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥
दे॒वी दे॒वेभि॑र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा॑णे । ऋ॒ताव॑री अ॒द्रुहा॑ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ॥
devī́ devébhiḥ yajaté yajatraír áminatī tasthatur ukṣámāṇe | ṛtā́varī ádruhā deváputre yajñásya netrī́ śucáyadbhir arkáiḥ ||
The two Goddesses stand firm with the gods who are worthy of worship, undiminished, pouring out their increase. Guardians of the Truth, without deceit, daughters of the Divine, they lead the sacrifice by the purifying hymns.
दे॒वी इति॑ । दे॒वेभिः॑ । य॒ज॒ते इति॑ । यज॑त्रैः । अमि॑नती॒ इति॑ । त॒स्थ॒तुः॒ । उ॒क्षमा॑णे॒ इति॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । अ॒द्रुहा॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । य॒ज्ञस्य॑ । ने॒त्री इति॑ । शु॒चय॑त्ऽभिः । अ॒र्कैः ॥देवी इति । देवेभिः । यजते इति । यजत्रैः । अमिनती इति । तस्थतुः । उक्षमाणे इति । ऋतवरी इत्यृतवरी । अद्रुहा । देवपुत्रे इति देवपुत्रे । यज्ञस्य । नेत्री इति । शुचयत्भिः । अर्कैः ॥devī iti | devebhiḥ | yajate iti | yajatraiḥ | aminatī iti | tasthatuḥ | ukṣamāṇeiti | ṛtavarī ity ṛta-varī | adruhā | devaputreitideva-putre | yajñasya | netrī | iti | śucayat-bhiḥ | arkaiḥ