Sukta 4.56
मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः । यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥
म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः । यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवै॑: ॥
mahī́ dyāvāpṛthivī ihá jyeṣṭhé rucā́ bhavatāṃ śucáyadbhir arkáiḥ | yát sīṃ váriṣṭhe bṛhatī́ viminván ruvád dhókṣā paprathānébhir eváiḥ ||
Mighty Heaven-and-Earth, here in your firstness, become luminous for us by the purifying hymns. For when in the highest wideness the Vast One measures out her spaces, the bellowing Bull spreads them with his expanding impulses.
म॒ही । द्यावा॑पृथि॒वी इति॑ । इ॒ह । ज्येष्ठे॒ इति॑ । रु॒चा । भ॒व॒ता॒म् । शु॒चय॑त्ऽभिः । अ॒र्कैः । यत् । सी॒म् । वरि॑ष्ठे॒ इति॑ । बृ॒ह॒ती इति॑ । वि॒ऽमि॒न्वन् । रु॒वत् । ह॒ । उ॒क्षा । प॒प्र॒था॒नेभिः॑ । एवैः॑ ॥मही । द्यावापृथिवी इति । इह । ज्येष्ठे इति । रुचा । भवताम् । शुचयत्भिः । अर्कैः । यत् । सीम् । वरिष्ठे इति । बृहती इति । विमिन्वन् । रुवत् । ह । उक्षा । पप्रथानेभिः । एवैः ॥mahī | dyāvāpṛthivī iti | iha | jyeṣṭheiti | rucā | bhavatām | śucayat-bhiḥ | arkaiḥ | yat | sīm | variṣṭheiti | bṛhatī iti | vi-minvan | ruvat | ha | ukṣā | paprathānebhiḥ | evaiḥ