Sukta 4.55
अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य । तान्यस्मभ्यं रासते ॥
अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य । तान्य॒स्मभ्यं॑ रासते ॥
agnír īśe vasavyásyāgnír maháḥ sáubhagasya | tā́ny asmábhyaṃ rāsate ||
Agni governs the riches that make us dwell in the true home; Agni governs the great felicity. Those powers of abundance may he give to us.
अ॒ग्निः । ई॒शे॒ । व॒स॒व्य॑स्य । अ॒ग्निः । म॒हः । सौभ॑गस्य । तानि॑ । अ॒स्मभ्य॑म् । रा॒स॒ते॒ ॥अग्निः । ईशे । वसव्यस्य । अग्निः । महः । सौभगस्य । तानि । अस्मभ्यम् । रासते ॥agniḥ | īśe | vasavyasya | agniḥ | mahaḥ | saubhagasya | tāni | asmabhyam | rāsate