Sukta 4.55
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् । नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥
दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् । न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥
deváir no devy áditir ní pātu devás trātā́ trāyatām áprayucchan | náhi mitrásya váruṇasya dhā́sím árhāmasi pramíyaṃ sā́nv agnéḥ ||
May the Goddess Aditi protect us together with the Gods; may the divine Protector save us without failing. For we do not deserve to diminish the established ordinances of Mitra and Varuna, nor to fall from the firm summit of Agni’s flame of aspiration.
दे॒वैः । नः॒ । दे॒वी । अदि॑तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र॑ऽयुच्छन् । न॒हि । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । अर्हा॑मसि । प्र॒ऽमिय॑म् । सानु॑ । अ॒ग्नेः ॥देवैः । नः । देवी । अदितिः । नि । पातु । देवः । त्राता । त्रायताम् । अप्रयुच्छन् । नहि । मित्रस्य । वरुणस्य । धासिम् । अर्हामसि । प्रमियम् । सानु । अग्नेः ॥devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan | nahi | mitrasya | varuṇasya | dhāsim | arhāmasi | pra-miyam | sānu | agneḥ