Sukta 4.55
नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः । समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ॥
नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः । स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥
nū rodasī ahínā budhnyéna stuvīt devī́ ápyebhir iṣṭáiḥ | samudráṃ ná saṃcáraṇe saniṣyávo gharmásvaraso nadyò apá vran ||
Now may the two Goddesses, Heaven-and-Earth, be praised with the desired offerings, with the deep-moving serpent-power from the foundation. Like rivers with the sound of heat and force, eager to win, they press forward in their course towards the ocean of being.
नु । रो॒द॒सी॒ इति॑ । अहि॑ना । बु॒ध्न्ये॑न । स्तु॒वी॒त । दे॒वी॒ इति॑ । अप्ये॑भिः । इ॒ष्टैः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । घ॒र्मऽस्व॑रसः । न॒द्यः॑ । अप॑ । व्र॒न् ॥नु । रोदसी इति । अहिना । बुध्न्येन । स्तुवीत । देवी इति । अप्येभिः । इष्टैः । समुद्रम् । न । सम्चरणे । सनिष्यवः । घर्मस्वरसः । नद्यः । अप । व्रन् ॥nu | rodasī | iti | ahinā | budhnyena | stuvīta | devī iti | api | ebhiḥ | iṣṭaiḥ | samudram | na | sam-caraṇe | saniṣyavaḥ | gharma-svarasaḥ | nadyaḥ | apa | vran