Sukta 4.55
आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य । पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥
आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य । पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥
ā párvatasya marútām avā́ṃsi devásya trātúr avri bhágasya | pā́t patír janyā́d áṃhaso no mitró mitriyā́d utá na uruṣyet ||
May the strong supports of Parvata—the upward-pressing foundation—and the helpful powers of the Maruts come to us; may Bhaga, the divine distributor, open out his guarded abundance for our rescue. May the Lord protect; may he beget us out of anguish. May Mitra make us grow in the harmony of friendship, and may he widen us into safety.
आ । पर्व॑तस्य । म॒रुता॑म् । अवां॑सि । दे॒वस्य॑ । त्रा॒तुः । अ॒व्रि॒ । भग॑स्य । पात् । पतिः॑ । जन्या॑त् । अंह॑सः । नः॒ । मि॒त्रः । मि॒त्रिया॑त् । उ॒त । नः॒ । उ॒रु॒ष्ये॒त् ॥आ । पर्वतस्य । मरुताम् । अवांसि । देवस्य । त्रातुः । अव्रि । भगस्य । पात् । पतिः । जन्यात् । अंहसः । नः । मित्रः । मित्रियात् । उत । नः । उरुष्येत् ॥ā | parvatasya | marutām | avāṃsi | devasya | trātuḥ | avri | bhagasya | pāt | patiḥ | janyāt | aṃhasaḥ | naḥ | mitraḥ | mitriyāt | uta | naḥ | uruṣyet