Sukta 4.55
व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः । इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम् ॥
व्य॑र्य॒मा वरु॑णश्चेति॒ पन्था॑मि॒षस्पति॑: सुवि॒तं गा॒तुम॒ग्निः । इन्द्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू॑थम् ॥
vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ | indrāviṣṇū nṛ-vad u ṣu stavānā śarma no yantam ama-vad varūtham ||
May Aryaman and Varuṇa make clear the path; may Agni, lord of the offering-impulse, lead us to the good passage. Indra and Viṣṇu, praised with the strength of men, bring to us peace—an effective, protecting defense.
वि । अ॒र्य॒मा । वरु॑णः । चे॒ति॒ । पन्था॑म् । इ॒षः । पतिः॑ । सु॒वि॒तम् । गा॒तुम् । अ॒ग्निः । इन्द्रा॑विष्णू॒ इति॑ । नृ॒ऽवत् । ऊँ॒ इति॑ । सु । स्तवा॑ना । शर्म॑ । नः॒ । य॒न्त॒म् । अम॑ऽवत् । वरू॑थम् ॥वि । अर्यमा । वरुणः । चेति । पन्थाम् । इषः । पतिः । सुवितम् । गातुम् । अग्निः । इन्द्राविष्णू इति । नृवत् । ऊँ इति । सु । स्तवाना । शर्म । नः । यन्तम् । अमवत् । वरूथम् ॥vi | aryamā | varuṇaḥ | ceti | panthām | iṣaḥ | patiḥ | suvitam | gātum | agniḥ | indrāviṣṇūiti | nṛ-vat | oṃ iti | su | stavānā | śarma | naḥ | yantam | ama-vat | varūtham