Sukta 4.55
प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः । विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥
प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः । वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचन्त द॒स्माः ॥
pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān vi-yotāro amūrāḥ | vi-dhātāro vi te dadhur ajasrā ṛta-dhītayo rurucanta dasmāḥ ||
Forth they sang the ancient stations; when they rose, the clear-seeing separators opened out the ways. The ordainers set them in their distinct places—unceasing, thinking the ṛta, the wondrous ones shone forth.
प्र । ये । धामा॑नि । पू॒र्व्याणि॑ । अर्चा॑न् । वि । यत् । उ॒च्छान् । वि॒ऽयो॒तारः॑ । अमू॑राः । वि॒ऽधा॒तारः॑ । वि । ते । द॒धुः॒ । अज॑स्राः । ऋ॒तऽधी॑तयः । रु॒रु॒च॒न्त॒ । द॒स्माः ॥प्र । ये । धामानि । पूर्व्याणि । अर्चान् । वि । यत् । उच्छान् । वियोतारः । अमूराः । विधातारः । वि । ते । दधुः । अजस्राः । ऋतधीतयः । रुरुचन्त । दस्माः ॥pra | ye | dhāmāni | pūrvyāṇi | arcān | vi | yat | ucchān | vi-yotāraḥ | amūrāḥ | vi-dhātāraḥ | vi | te | dadhuḥ | ajasrāḥ | ṛta-dhītayaḥ | rurucanta | dasmāḥ