Sukta 4.55
को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः । सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥
को व॑स्त्रा॒ता व॑सव॒: को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः । सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥
ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ | sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ ||
Who is your protector, O Vasus, who your true defense? O Heaven and Earth, O Aditi, do you guard us. From the overbearing mortal, O Varuṇa and Mitra, who among you gods establishes for us a wide freedom in the sacrifice?
कः । वः॒ । त्रा॒ता । व॒स॒वः॒ । कः । व॒रू॒ता । द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । सही॑यसः । व॒रु॒ण॒ । मि॒त्र॒ । मर्ता॑त् । कः । वः॒ । अ॒ध्व॒रे । वरि॑वः । धा॒ति॒ । दे॒वाः॒ ॥कः । वः । त्राता । वसवः । कः । वरूता । द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । सहीयसः । वरुण । मित्र । मर्तात् । कः । वः । अध्वरे । वरिवः । धाति । देवाः ॥kaḥ | vaḥ | trātā | vasavaḥ | kaḥ | varūtā | dyāvābhūmī iti | adite | trāsīthām | naḥ | sahīyasaḥ | varuṇa | mitra | martāt | kaḥ | vaḥ | adhvare | varivaḥ | dhāti | devāḥ