Sukta 4.54
न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति । यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत् ॥
न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ । यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व॑ङ्गु॒रिर्वर्ष्म॑न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥
na pra-miye savitur daivyasya tad yathā viśvaṃ bhuvanaṃ dhārayiṣyati | yat pṛthivyā variman nā svaṅgurir varṣman divaḥ suvati satyam asya tat ||
Not to be measured is that of the divine Savitṛ—how he shall uphold the whole becoming; for from the wideness of earth to the summit of heaven his true impulsion goes forth: that is his truth.
न । प्र॒ऽमिये॑ । स॒वि॒तुः । दैव्य॑स्य । तत् । यथा॑ । विश्व॑म् । भुव॑नम् । धा॒र॒यि॒ष्यति॑ । यत् । पृ॒थि॒व्याः । वरि॑मन् । आ । सु॒ऽअ॒ङ्गु॒रिः । वर्ष्म॑न् । दि॒वः । सु॒वति॑ । स॒त्यम् । अ॒स्य॒ । तत् ॥न । प्रमिये । सवितुः । दैव्यस्य । तत् । यथा । विश्वम् । भुवनम् । धारयिष्यति । यत् । पृथिव्याः । वरिमन् । आ । सुअङ्गुरिः । वर्ष्मन् । दिवः । सुवति । सत्यम् । अस्य । तत् ॥na | pra-miye | savituḥ | daivyasya | tat | yathā | viśvam | bhuvanam | dhārayiṣyati | yat | pṛthivyāḥ | variman | ā | su-aṅguriḥ | varṣman | divaḥ | suvati | satyam | asya | tat