Sukta 4.54
देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमम् । आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् । आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥
devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam | ādid dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ ||
For first to the divine ones worthy of sacrifice you set in motion the supreme portion of immortality; then, O Savitṛ, you unfold the measured ordinances, and in their following you extend the streams of life for human beings.
दे॒वेभ्यः॑ । हि । प्र॒थ॒मम् । य॒ज्ञिये॑भ्यः । अ॒मृ॒त॒ऽत्वम् । सु॒वसि॑ । भा॒गम् । उ॒त्ऽत॒मम् । आत् । इत् । दा॒मान॑म् । स॒वि॒तः॒ । वि । ऊ॒र्णु॒षे॒ । अ॒नू॒ची॒ना । जी॒वि॒ता । मानु॑षेभ्यः ॥देवेभ्यः । हि । प्रथमम् । यज्ञियेभ्यः । अमृतत्वम् । सुवसि । भागम् । उत्तमम् । आत् । इत् । दामानम् । सवितः । वि । ऊर्णुषे । अनूचीना । जीविता । मानुषेभ्यः ॥devebhyaḥ | hi | prathamam | yajñiyebhyaḥ | amṛta-tvam | suvasi | bhāgam | ut-tamam | āt | it | dāmānam | savitaḥ | vi | ūrṇuṣe | anūcīnā | jīvitā | mānuṣebhyaḥ