Sukta 4.54
अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥
अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभि॑: । वि यो रत्ना॒ भज॑ति मान॒वेभ्य॒: श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥
abhūd devaḥ savitā vandyo nu na idānīm ahna upa-vācyo nṛbhiḥ | vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat ||
Now the god Savitṛ has become truly to be adored by us, to be invoked by the human powers in this very day; he who apportions the inner treasures to the seekers—may he here establish in us the most excellent plenitude of substance and force.
अभू॑त् । दे॒वः । स॒वि॒ता । वन्द्यः॑ । नु । नः॒ । इ॒दानी॑म् । अह्नः॑ । उ॒प॒ऽवाच्यः॑ । नृऽभिः॑ । वि । यः । रत्ना॑ । भज॑ति । मा॒न॒वेभ्यः॑ । श्रेष्ठ॑म् । नः॒ । अत्र॑ । द्रवि॑णम् । यथा॑ । दध॑त् ॥अभूत् । देवः । सविता । वन्द्यः । नु । नः । इदानीम् । अह्नः । उपवाच्यः । नृभिः । वि । यः । रत्ना । भजति । मानवेभ्यः । श्रेष्ठम् । नः । अत्र । द्रविणम् । यथा । दधत् ॥abhūt | devaḥ | savitā | vandyaḥ | nu | naḥ | idānīm | ahnaḥ | upa-vācyaḥ | nṛ-bhiḥ | vi | yaḥ | ratnā | bhajati | mānavebhyaḥ | śreṣṭham | naḥ | atra | draviṇam | yathā | dadhat