Sukta 4.53
बृहत्सुम्नः प्रसवीता निवेशनो जगतः स्थातुरुभयस्य यो वशी । स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥
बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी । स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥
br̥hát-sumnaḥ pra-savītā́ ni-veśano jágataḥ sthātúr ubháyasya yó vaśī́ | sá no deváḥ savitā́ śárma yacchatv asmè kṣáyāya tri-varū́tham áṃhasaḥ ||
Savitṛ of vast felicity, the impeller and establisher, master of both the moving and the still: may that god grant us peace and a dwelling in being—triple-guarded—safe from distress and wrong.
बृ॒हत्ऽसु॑म्नः । प्र॒ऽस॒वि॒ता । नि॒ऽवेश॑नः । जग॑तः । स्था॒तुः । उ॒भय॑स्य । यः । व॒शी । सः । नः॒ । दे॒वः । स॒वि॒ता । शर्म॑ । य॒च्छ॒तु॒ । अ॒स्मे इति॑ । क्षया॑य । त्रि॒ऽवरू॑थम् । अंह॑सः ॥बृहत्सुम्नः । प्रसविता । निवेशनः । जगतः । स्थातुः । उभयस्य । यः । वशी । सः । नः । देवः । सविता । शर्म । यच्छतु । अस्मे इति । क्षयाय । त्रिवरूथम् । अंहसः ॥bṛhat-sumnaḥ | pra-savitā | ni-veśanaḥ | jagataḥ | sthātuḥ | ubhayasya | yaḥ | vaśī | saḥ | naḥ | devaḥ | savitā | śarma | yacchatu | asme iti | kṣayāya | tri-varūtham | aṃhasaḥ