Sukta 4.53
आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् । स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥
आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म् । स न॑: क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥
ā́gand devá ṛtúbhir várdhatu kṣáyaṃ dádhātu naḥ savitā́ su-prajā́m íṣam | sá naḥ kṣapā́bhir áhabhiś ca jinvatu prajā́vantaṃ rayím asmè sám invatu ||
May the god come with the seasons and increase our dwelling of being; may Savitṛ place in us the nourishing force rich in progeny. By nights and by days may he quicken us; may he wholly set in us a wealth that bears offspring—fullness of life and light.
आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् । सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥आ । अगन् । देवः । ऋतुभिः । वर्धतु । क्षयम् । दधातु । नः । सविता । सुप्रजाम् । इषम् । सः । नः । क्षपाभिः । अहभिः । च । जिन्वतु । प्रजावन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु ॥ā | agan | devaḥ | ṛtu-bhiḥ | vardhatu | kṣayam | dadhātu | naḥ | savitā | su-prajām | iṣam | saḥ | naḥ | kṣapābhiḥ | aha-bhiḥ | ca | jinvatu | prajāvantam | rayim | asme iti | sam | invatu