Sukta 4.53
त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना । तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥
त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना । ति॒स्रो दिव॑: पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥
trír antárikṣaṃ savitā́ mahitvanā́ trī́ rajā́ṃsi paribhūs trī́ṇi rocanā́ | tísro dívaḥ pr̥thivī́s tísra invati tribhír vratáir abhí no rakṣati tmánā ||
Threefold Savitṛ, by his greatness, encompasses the midspace; he masters the three regions and the three luminous realms. He sets in motion the three heavens and the three earths; by his triple laws he guards us by his own self-power.
त्रिः । अ॒न्तरि॑क्षम् । स॒वि॒ता । म॒हि॒ऽत्व॒ना । त्री । रजां॑सि । प॒रि॒ऽभूः । त्रीणि॑ । रो॒च॒ना । ति॒स्रः । दिवः॑ । पृ॒थि॒वीः । ति॒स्रः । इ॒न्व॒ति॒ । त्रि॒ऽभिः । व्र॒तैः । अ॒भि । नः॒ । र॒क्ष॒ति॒ । त्मना॑ ॥त्रिः । अन्तरिक्षम् । सविता । महित्वना । त्री । रजांसि । परिभूः । त्रीणि । रोचना । तिस्रः । दिवः । पृथिवीः । तिस्रः । इन्वति । त्रिभिः । व्रतैः । अभि । नः । रक्षति । त्मना ॥triḥ | antarikṣam | savitā | mahi-tvanā | trī | rajāṃsi | pari-bhūḥ | trīṇi | rocanā | tisraḥ | divaḥ | pṛthivīḥ | tisraḥ | invati | tri-bhiḥ | vrataiḥ | abhi | naḥ | rakṣati | tmanā