Sukta 4.53
अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते । प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥
अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते । प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥
adā́bhyo bhúvanāni pra-cā́kaśad vratā́ni deváḥ savitā́bhi rakṣate | prā́srāg bāhū́ bhúvanasya prajā́bhyo dhr̥tá-vrato mahó ájmasya rājati ||
Inviolable, he makes the worlds shine forth; Savitṛ guards the laws of right working. He has stretched out his arms for the becomings and their creatures; steadfast in his vows, he shines in the greatness of his far-reaching movement.
अदा॑भ्यः । भुव॑नानि । प्र॒ऽचाक॑शत् । व्र॒तानि॑ । दे॒वः । स॒वि॒ता । अ॒भि । र॒क्ष॒ते॒ । प्र । अ॒स्रा॒क् । बा॒हू इति॑ । भुव॑नस्य । प्र॒ऽजाभ्यः॑ । धृ॒तऽव्र॑तः । म॒हः । अज्म॑स्य । रा॒ज॒ति॒ ॥अदाभ्यः । भुवनानि । प्रचाकशत् । व्रतानि । देवः । सविता । अभि । रक्षते । प्र । अस्राक् । बाहू इति । भुवनस्य । प्रजाभ्यः । धृतव्रतः । महः । अज्मस्य । राजति ॥adābhyaḥ | bhuvanāni | pra-cākaśat | vratāni | devaḥ | savitā | abhi | rakṣate | pra | asrāk | bāhū iti | bhuvanasya | pra-jābhyaḥ | dhṛta-vrataḥ | mahaḥ | ajmasya | rājati