HomeRig VedaMandala 4Sukta 53Mantra 3
Previous Mantra
Next Mantra

Mantra 3

Sukta 4.53

Devata: Savitṛ

आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥

आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे । प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥

ā́prā rajā́ṃsi divyā́ni pārthívā ślókaṃ deváḥ kr̥ṇute svā́ya dhármaṇe | prá bāhū́ asrāk savitā́ savī́mani niveśáyan prasúvann aktúbhir jágat ||

He has filled the heavenly and earthly regions; the god makes a clear proclamation for his own law of truth. Savitṛ has stretched forth his arms in the act of impulsion, settling and setting in motion the moving world through his luminous phases.

आ । अ॒प्राः॒ । रजां॑सि । दि॒व्यानि॑ । पार्थि॑वा । श्लोक॑म् । दे॒वः । कृ॒णु॒ते॒ । स्वाय॑ । धर्म॑णे । प्र । बा॒हू इति॑ । अ॒स्रा॒क् । स॒वि॒ता । सवी॑मनि । नि॒ऽवे॒शय॑न् । प्र॒ऽसु॒वन् । अ॒क्तुऽभिः॑ । जग॑त् ॥आ । अप्राः । रजांसि । दिव्यानि । पार्थिवा । श्लोकम् । देवः । कृणुते । स्वाय । धर्मणे । प्र । बाहू इति । अस्राक् । सविता । सवीमनि । निवेशयन् । प्रसुवन् । अक्तुभिः । जगत् ॥ā | aprāḥ | rajāṃsi | divyāni | pārthivā | ślokam | devaḥ | kṛṇute | svāya | dharmaṇe | pra | bāhū iti | asrāk | savitā | savīmani | ni-veśayan | pra-suvan | aktu-bhiḥ | jagat