Sukta 4.53
दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥
दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः । वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥
divó dhartā́ bhúvanasya prajā́patiḥ piśáṅgaṃ drā́piṃ práti muñcate kavíḥ | vi-cakṣaṇáḥ pratháyann āpr̥ṇánn urv ájījanat savitā́ sumnám ukthyàm ||
Savitṛ, holder of heaven and lord of becoming, the seer, releases the tawny mantle in front—he opens the vision, widens and fills the spaces, and brings to birth the vastness; he engenders the hymn-worthy felicity of the soul.
दि॒वः । ध॒र्ता । भुव॑नस्य । प्र॒जाऽप॑तिः । पि॒शङ्ग॑म् । द्रा॒पिम् । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः । वि॒ऽच॒क्ष॒णः । प्र॒थय॑न् । आ॒ऽपृ॒णन् । उ॒रु । अजी॑जनत् । स॒वि॒ता । सु॒म्नम् । उ॒क्थ्य॑म् ॥दिवः । धर्ता । भुवनस्य । प्रजापतिः । पिशङ्गम् । द्रापिम् । प्रति । मुञ्चते । कविः । विचक्षणः । प्रथयन् । आपृणन् । उरु । अजीजनत् । सविता । सुम्नम् । उक्थ्यम् ॥divaḥ | dhartā | bhuvanasya | prajāpatiḥ | piśaṅgam | drāpim | prati | muñcate | kaviḥ | vi-cakṣaṇaḥ | prathayan | āpṛṇan | uru | ajījanat | savitā | sumnam | ukthyam