Sukta 4.53
तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः । छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥
तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः । छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभि॑: ॥
tád devásya savitúr vā́ryam mahád vr̥ṇīmahe ásurasya prácetasaḥ | chardír yéna dāśúṣe yácchati tmánā tán no mahā́n úd ayān devó aktúbhiḥ ||
That supreme and desirable greatness of Savitṛ, the lord of luminous will and wide intelligence, we choose: the protecting shelter by which, by his own self-force, he grants to the giver. May that mighty god rise for us with his advancing lights, awakening our being.
तत् । दे॒वस्य॑ । स॒वि॒तुः । वार्य॑म् । म॒हत् । वृ॒णी॒महे॑ । असु॑रस्य । प्रचे॑तसः । छ॒र्दिः । येन॑ । दा॒शुषे॑ । यच्छ॑ति । त्मना॑ । तत् । नः॒ । म॒हान् । उत् । अ॒या॒न् । दे॒वः । अ॒क्तुऽभिः॑ ॥तत् । देवस्य । सवितुः । वार्यम् । महत् । वृणीमहे । असुरस्य । प्रचेतसः । छर्दिः । येन । दाशुषे । यच्छति । त्मना । तत् । नः । महान् । उत् । अयान् । देवः । अक्तुभिः ॥tat | devasya | savituḥ | vāryam | mahat | vṛṇīmahe | asurasya | pracetasaḥ | chardiḥ | yena | dāśuṣe | yacchati | tmanā | tat | naḥ | mahān | ut | ayān | devaḥ | aktu-bhiḥ