Sukta 4.52
अश्वेव चित्रारुषी माता गवामृतावरी । सखाभूदश्विनोरुषाः ॥
अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री । सखा॑भूद॒श्विनो॑रु॒षाः ॥
aśvā́ iva citrā́ruṣī mātā́ gavām ṛtā́varī | sákhābhūd aśvínoḥ uṣā́ḥ ||
Like a bright red horse she shines in many colours; she is the mother of the rays (cows), the chooser and bearer of the Right. Dawn has become the companion of the Aśvins—she leads the swift powers that bring help.
अश्वा॑ऽइव । चि॒त्रा । अरु॑षी । मा॒ता । गवा॑म् । ऋ॒तऽव॑री । सखा॑ । अ॒भू॒त् । अ॒श्विनोः॑ । उ॒षाः ॥अश्वाइव । चित्रा । अरुषी । माता । गवाम् । ऋतवरी । सखा । अभूत् । अश्विनोः । उषाः ॥aśvāiva | citrā | aruṣī | mātā | gavām | ṛta-varī | sakhā | abhūt | aśvinoḥ | uṣāḥ