Sukta 4.51
ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति । गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥
ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरन्ति । गूह॑न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभि॒: शुच॑यो रुचा॒नाः ॥
tā ín nv èva samanā samānīr amīta-varṇā uṣásaś caranti | gūhántīr abhvám asitáṃ rúśadbhiḥ śukrā́s tanū́bhiḥ śúcayo rucānā́ḥ ||
Even so, they move—one in their harmony, one in their sameness—Dawns of unmeasured colour and power. Hiding the vast blackness with their flashing radiances, pure and shining in their bright bodies, they make the consciousness luminous.
ताः । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नीः । अमी॑तऽवर्णाः । उ॒षसः॑ । च॒र॒न्ति॒ । गूह॑न्तीः । अभ्व॑म् । असि॑तम् । रुश॑त्ऽभिः । शु॒क्राः । त॒नूभिः॑ । शुच॑यः । रु॒चा॒नाः ॥ताः । इत् । नु । एव । समना । समानीः । अमीतवर्णाः । उषसः । चरन्ति । गूहन्तीः । अभ्वम् । असितम् । रुशत्भिः । शुक्राः । तनूभिः । शुचयः । रुचानाः ॥tāḥ | it | nu | eva | samanā | samānīḥ | amīta-varṇāḥ | uṣasaḥ | caranti | gūhantīḥ | abhvam | asitam | ruśat-bhiḥ | śukrāḥ | tanūbhiḥ | śucayaḥ | rucānāḥ