Sukta 4.51
ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः । ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥
ता आ च॑रन्ति सम॒ना पु॒रस्ता॑त्समा॒नत॑: सम॒ना प॑प्रथा॒नाः । ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरन्ते ॥
tā ā cáranti samanā purástāt samānatáḥ samanā paprathānāḥ | ṛtásya devīḥ sádaso budhānā gavā́ṃ ná sárgā uṣáso jarante ||
They come moving in harmony from the front of things; in one same fashion, spreading themselves in one same law. Goddesses of the Right, awakened to the seat of consciousness, the Dawns stream forth like the releasing of the rays (cows) and so they wear down the night’s hold.
ताः । आ । च॒र॒न्ति॒ । स॒म॒ना । पु॒रस्ता॑त् । स॒मा॒नतः॑ । स॒म॒ना । प॒प्र॒था॒नाः । ऋ॒तस्य॑ । दे॒वीः । सद॑सः । बु॒धा॒नाः । गवा॑म् । न । सर्गाः॑ । उ॒षसः॑ । ज॒र॒न्ते॒ ॥ताः । आ । चरन्ति । समना । पुरस्तात् । समानतः । समना । पप्रथानाः । ऋतस्य । देवीः । सदसः । बुधानाः । गवाम् । न । सर्गाः । उषसः । जरन्ते ॥tāḥ | ā | caranti | samanā | purastāt | samānataḥ | samanā | paprathānāḥ | ṛtasya | devīḥ | sadasaḥ | budhānāḥ | gavām | na | sargāḥ | uṣasaḥ | jarante