Sukta 4.51
ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः । यास्वीजानः शशमान उक्थैः स्तुवञ्छंसन्द्रविणं सद्य आप ॥
ता घा॒ ता भ॒द्रा उ॒षस॑: पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः । यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ॥
tā ghā tā bhadrā uṣásaḥ purāsur abhiṣṭí-dyumnā ṛtajāta-satyāḥ | yāsu ījānáḥ śaśamāná ukthaíḥ stuváñ cháṃsan dráviṇaṃ sadyá āpa ||
Those indeed—those were the gracious Dawns of old, rich in victorious splendour, born of the Right and true in their being. In them the sacrificer, worshipping and labouring with the word of affirmation, praising and proclaiming, at once attained the inner wealth.
ताः । घ॒ । ताः । भ॒द्राः । उ॒षसः॑ । पु॒रा । आ॒सुः॒ । अ॒भि॒ष्टिऽद्यु॑म्नाः । ऋ॒तजा॑तऽसत्याः । यासु॑ । ई॒जा॒नः । श॒श॒मा॒नः । उ॒क्थैः । स्तु॒वन् । शंस॑न् । द्रवि॑णम् । स॒द्यः । आप॑ ॥ताः । घ । ताः । भद्राः । उषसः । पुरा । आसुः । अभिष्टिद्युम्नाः । ऋतजातसत्याः । यासु । ईजानः । शशमानः । उक्थैः । स्तुवन् । शंसन् । द्रविणम् । सद्यः । आप ॥tāḥ | gha | tāḥ | bhadrāḥ | uṣasaḥ | purā | āsuḥ | abhiṣṭi-dyumnāḥ | ṛtajāta-satyāḥ | yāsu | ījānaḥ | śaśamānaḥ | ukthaiḥ | stuvan | śaṃsan | draviṇam | sadyaḥ | āpa