Sukta 4.51
यूयं हि देवीॠतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः । प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥
यू॒यं हि दे॑वीॠत॒युग्भि॒रश्वै॑: परिप्रया॒थ भुव॑नानि स॒द्यः । प्र॒बो॒धय॑न्तीरुषसः स॒सन्तं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वम् ॥
yūyáṃ hí devīr ṛtá-yugbhir áśvaiḥ pari-prayā́tha bhúvanāni sadyáḥ | pra-bodháyantīr uṣasaḥ sásantaṃ dvipā́c cátuṣpāc caráthāya jīváṃ ||
For you, O goddesses, travel around the worlds at once with horses yoked to the Right. Awakening the sleeper, O Dawns, you set in motion all life—two-footed and four-footed—for its journey.
यू॒यम् । हि । दे॒वीः॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । प॒रि॒ऽप्र॒या॒थ । भुव॑नानि । स॒द्यः । प्र॒ऽबो॒धय॑न्तीः । उ॒ष॒सः॒ । स॒सन्त॑म् । द्वि॒ऽपात् । चतुः॑ऽपात् । च॒रथा॑य । जी॒वम् ॥यूयम् । हि । देवीः । ऋतयुक्भिः । अश्वैः । परिप्रयाथ । भुवनानि । सद्यः । प्रबोधयन्तीः । उषसः । ससन्तम् । द्विपात् । चतुःपात् । चरथाय । जीवम् ॥yūyam | hi | devīḥ | ṛtayuk-bhiḥ | aśvaiḥ | pari-prayātha | bhuvanāni | sadyaḥ | pra-bodhayantīḥ | uṣasaḥ | sasantam | dvi-pāt | catuḥ-pāt | carathāya | jīvam