Sukta 4.51
कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य । येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥
कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य । येना॒ नव॑ग्वे॒ अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥
kuvít sá devīḥ sanáyo návo vā yā́mo babhūyād uṣaso vo adyá | yénā nava-gvé aṅgíre daśa-gvé saptā́sye revatī́ḥ revád ū́ṣa ||
Will there be, O goddesses, a new winning or a new course for you today, O Dawns—by which, for the Navagvas, the Angirasas, the Dashagvas, the Seven-mouthed, you shone richly and made the riches manifest?
कु॒वित् । सः । दे॒वीः॒ । स॒नयः॑ । नवः॑ । वा॒ । यामः॑ । ब॒भू॒यात् । उ॒ष॒सः॒ । वः॒ । अ॒द्य । येन॑ । नव॑ऽग्वे । अङ्गि॑रे । दश॑ऽग्वे । स॒प्तऽआ॑स्ये । रे॒व॒तीः॒ । रे॒वत् । ऊ॒ष ॥कुवित् । सः । देवीः । सनयः । नवः । वा । यामः । बभूयात् । उषसः । वः । अद्य । येन । नवग्वे । अङ्गिरे । दशग्वे । सप्तआस्ये । रेवतीः । रेवत् । ऊष ॥kuvit | saḥ | devīḥ | sanayaḥ | navaḥ | vā | yāmaḥ | babhūyāt | uṣasaḥ | vaḥ | adya | yena | nava-gve | aṅgire | daśa-gve | sapta-āsye | revatīḥ | revat | ūṣa