Sukta 4.51
उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः । अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥
उ॒च्छन्ती॑र॒द्य चि॑तयन्त भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनी॑: । अ॒चि॒त्रे अ॒न्तः प॒णय॑: सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥
ucchántīr adyá citayanta bhojā́n rādho-deyā́ya uṣáso maghónīḥ | acitré antáḥ paṇáyaḥ sasantu abúdhyamānās támaso ví-madhye ||
Rising today, the generous Dawns make the enjoyers aware, for the giving of the delight. Let the Panis remain within the colourless obscurity, unawakened in the midst of darkness.
उ॒च्छन्तीः॑ । अ॒द्य । चि॒त॒य॒न्त॒ । भो॒जान् । रा॒धः॒ऽदेया॑य । उ॒षसः॑ । म॒घोनीः॑ । अ॒चि॒त्रे । अ॒न्तरिति॑ । प॒णयः॑ । स॒स॒न्तु॒ । अबु॑ध्यमानाः । तम॑सः । विऽम॑ध्ये ॥उच्छन्तीः । अद्य । चितयन्त । भोजान् । राधःदेयाय । उषसः । मघोनीः । अचित्रे । अन्तरिति । पणयः । ससन्तु । अबुध्यमानाः । तमसः । विमध्ये ॥ucchantīḥ | adya | citayanta | bhojān | rādhaḥ-deyāya | uṣasaḥ | maghonīḥ | acitre | antariti | paṇayaḥ | sasantu | abudhyamānāḥ | tamasaḥ | vi-madhye