Sukta 4.51
अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु । व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥
अस्थु॑रु चि॒त्रा उ॒षस॑: पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ । व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥
ásthur u citrā́ uṣásaḥ purástān mitā́ iva sváravo 'dhvaréṣu | vy ū́ vrajásya támaso dvā́ro ucchántīr avran śúcayaḥ pāvakā́ḥ ||
The brilliant Dawns have stood in front, like measured tones in the rites. Rising, they have opened wide the doors of the dark enclosure; shining and purifying, they have made the way clear.
अस्थुः॑ । ऊँ॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ । वि । ऊँ॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पाव॒काः ॥अस्थुः । ऊँ इति । चित्राः । उषसः । पुरस्तात् । मिताःइव । स्वरवः । अध्वरेषु । वि । ऊँ इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः ॥asthuḥ | oṃ iti | citrāḥ | uṣasaḥ | purastāt | mitāḥ-iva | svaravaḥ | adhvareṣu | vi | oṃ iti | vrajasya | tamasaḥ | dvārā | ucchantīḥ | avran | śucayaḥ | pāvakāḥ