Sukta 4.51
इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् । नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥
इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् । नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥
idám u tyát puru-tamáṃ purástāj jyótis támaso vayúnāvad asthāt | nūnáṃ divó duhitáro vibhātī́r gātúṃ kṛṇavann uṣáso jánāya ||
This now—most abundant—is the Light that has arisen in front, full of discerning order out of the darkness. Now the Dawns, daughters of Heaven, shine forth making a path for the human being.
इ॒दम् । ऊँ॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् । नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥इदम् । ऊँ इति । त्यत् । पुरुतमम् । पुरस्तात् । ज्योतिः । तमसः । वयुनवत् । अस्थात् । नूनम् । दिवः । दुहितरः । विभातीः । गातुम् । कृणवन् । उषसः । जनाय ॥idam | oṃ iti | tyat | puru-tamam | purastāt | jyotiḥ | tamasaḥ | vayuna-vat | asthāt | nūnam | divaḥ | duhitaraḥ | vi-bhātīḥ | gātum | kṛṇavan | uṣasaḥ | janāya