Sukta 4.50
बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे । अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥
बृह॑स्पत इन्द्र॒ वर्ध॑तं न॒: सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
bṛ́haspata indra várdhatam naḥ sácā sā́ vāṃ su-matír bhūtv asmḗ | aviṣṭáṃ dhíyo jिगṛtáṃ puráṃdhīr jajástam aryó vanúṣām arā́tīḥ ||
Brihaspati and Indra, increase with us; may your good-minded guidance be in us. Make our thoughts desired and upheld, and our plenitudes of understanding firmly grasping; crush the hostilities of those who would withhold and obstruct.
बृह॑स्पते । इ॒न्द्र॒ । वर्ध॑तम् । नः॒ । सचा॑ । सा । वा॒म् । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥बृहस्पते । इन्द्र । वर्धतम् । नः । सचा । सा । वाम् । सुमतिः । भूतु । अस्मे इति । अविष्टम् । धियः । जिगृतम् । पुरम्धीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥bṛhaspate | indra | vardhatam | naḥ | sacā | sā | vām | su-matiḥ | bhūtu | asme iti | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ