Sukta 4.50
इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू । आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥
इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू । आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥
índraś ca sómaṃ pibatam bṛ́haspate 'smín yajñé mandasānā́ vṛṣaṇvasū | ā́ vāṃ viśántv índavaḥ svā́bhuvo 'smé rayíṃ sárva-vīraṃ ní yacchatam ||
Indra and Brihaspati, drink the Soma in this sacrifice, rejoicing as strong bringers of luminous wealth. Let the Soma drops enter into you in their own true becoming; then set down in us the plenitude of riches full of heroic powers.
इन्द्रः॑ । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑वः । सु॒ऽआ॒भुवः॑ । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥इन्द्रः । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषण्वसू इति वृषण्वसू । आ । वाम् । विशन्तु । इन्दवः । सुआभुवः । अस्मे इति । रयिम् । सर्ववीरम् । नि । यच्छतम् ॥indraḥ | ca | somam | pibatam | bṛhaspate | asmin | yajñe | mandasānā | vṛṣaṇvasūitivṛṣaṇ-vasū | ā | vām | viśantu | indavaḥ | su-ābhuvaḥ | asme iti | rayim | sarva-vīram | ni | yacchatam