Sukta 4.5
प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति । यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः ॥
प्र॒वाच्यं॒ वच॑स॒: किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दन्ति । यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥
pra-vā́cyaṃ vácasaḥ kíṃ me asyá guhā́ hitám úpa niṇíg vadanti | yád usríyāṇām ápa vā́r iva vrán pā́ti priyáṃ rúpó ágraṃ padáṃ véḥ ||
What is to be spoken of this word of mine, which they say is hidden in the secret cave? When the wound is opened like a gate of wide space, then the beloved Form guards the foremost step of the Rays, the leading station of vision.
प्र॒ऽवाच्य॑म् । वच॑सः । किम् । मे॒ । अ॒स्य । गुहा॑ । हि॒तम् । उप॑ । नि॒णिक् । व॒द॒न्ति॒ । यत् । उ॒स्रिया॑णाम् । अप॑ । वाःऽइ॑व । व्रन् । पाति॑ । प्रि॒यम् । रु॒पः । अग्र॑म् । प॒दम् । वेः ॥प्रवाच्यम् । वचसः । किम् । मे । अस्य । गुहा । हितम् । उप । निणिक् । वदन्ति । यत् । उस्रियाणाम् । अप । वाःइव । व्रन् । पाति । प्रियम् । रुपः । अग्रम् । पदम् । वेः ॥pra-vācyam | vacasaḥ | kim | me | asya | guhā | hitam | upa | niṇik | vadanti | yat | usriyāṇām | apa | vāḥ-iva | vran | pāti | priyam | rupaḥ | agram | padam | veḥ