Sukta 4.5
तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः । ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु ॥
तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः । स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥
tám innv èvá samanā́ samā́nam abhí kratvā́ punatī́ dhītír aśyāḥ | sasásya cármann ádhi cā́ru pṛ́śner ágre rúpá ā́rupitaṃ jabā́ru ||
Him indeed, ever the same in the common meeting, the purifying thought reaches by its will. Upon the hide of the growing being, upon the fair-spotted (field of nature), in the forefront the form is set in beauty—an outward sign (jabāru) of the inner shaping.
तम् । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नम् । अ॒भि । क्रत्वा॑ । पु॒न॒ती । धी॒तिः । अ॒श्याः॒ । स॒सस्य॑ । चर्म॑न् । अधि॑ । चारु॑ । पृश्नेः॑ । अग्ने॑ । रु॒पः । अरु॑पितम् । जबा॑रु ॥तम् । इत् । नु । एव । समना । समानम् । अभि । क्रत्वा । पुनती । धीतिः । अश्याः । ससस्य । चर्मन् । अधि । चारु । पृश्नेः । अग्ने । रुपः । अरुपितम् । जबारु ॥tam | it | nu | eva | samanā | samānam | abhi | kratvā | punatī | dhītiḥ | aśyāḥ | sasasya | carman | adhi | cāru | pṛśneḥ | agne | rupaḥ | arupitam | jabāru