Sukta 4.5
अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः । अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम् ॥
अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पास॑: । अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ॥
aniréṇa vácasā phálgvená pratī́tyena kṛdhúnā atṛpā́saḥ | ádhā te agne kím ihā́ vadanty anāyudhā́sa āsátā sacantām ||
With speech that lacks sap, with a paltry and misconceived understanding, the unsatisfied move about. Then what can they say here to thee, O Agni? Let the weaponless sit down and cling (only) to their own helplessness.
अ॒नि॒रेण॑ । वच॑सा । फ॒ल्ग्वे॑न । प्र॒तीत्ये॑न । कृ॒धुना॑ । अ॒तृ॒पासः॑ । अध॑ । ते । अ॒ग्ने॒ । किम् । इ॒ह । व॒द॒न्ति॒ । अ॒ना॒यु॒धासः॑ । आस॑ता । स॒च॒न्ता॒म् ॥अनिरेण । वचसा । फल्ग्वेन । प्रतीत्येन । कृधुना । अतृपासः । अध । ते । अग्ने । किम् । इह । वदन्ति । अनायुधासः । आसता । सचन्ताम् ॥anireṇa | vacasā | phalgvena | pratītyena | kṛdhunā | atṛpāsaḥ | adha | te | agne | k im | iha | vadanti | anāyudhāsaḥ | āsatā | sacantām