Sukta 4.5
अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच । रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥
अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच । रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥
asyá śríye samidhānásya vṛ́ṣṇo vásor ánīkaṃ dáma ā́ ruroca | ruśád vasā́naḥ sudṛ́śīkārūpaḥ kṣitír ná rāyā́ puruvā́ro ádyaut ||
For his splendour, for the Bull as he is kindled, the face of the Vast One shone out in the house. Wearing radiance, of a form made perfectly visible, he blazed—like a dwelling-place rich with plenitude, wide-doored with abundance.
अ॒स्य । श्रि॒ये । स॒म्ऽइ॒धा॒नस्य॑ । वृष्णः॑ । वसोः॑ । अनी॑कम् । दमे॑ । आ । रु॒रो॒च॒ । रुश॑त् । वसा॑नः । सु॒दृशी॑कऽरूपः । क्षि॒तिः । न । रा॒या । पु॒रु॒ऽवारः॑ । अ॒द्यौ॒त् ॥अस्य । श्रिये । सम्इधानस्य । वृष्णः । वसोः । अनीकम् । दमे । आ । रुरोच । रुशत् । वसानः । सुदृशीकरूपः । क्षितिः । न । राया । पुरुवारः । अद्यौत् ॥asya | śriye | sam-idhānasya | vṛṣṇaḥ | vasoḥ | anīkam | dame | ā | ruroca | ruśat | vasānaḥ | sudṛśīka-rūpaḥ | kṣitiḥ | na | rāyā | puru-vāraḥ | adyaut