Sukta 4.5
का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम् । कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः ॥
का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाज॑म् । क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नी॒: सूरो॒ वर्णे॑न ततनन्नु॒षास॑: ॥
kā́ maryā́dā vayúnā kád dha vāmám ácchā gamema raghávo ná vā́jam | kadā́ no devī́r amṛ́tasya pátnīḥ sū́ro várṇena tatanann uṣā́saḥ ||
What boundary, what right discernment, what truly desirable good will bring us straight to it, swift as to plenitude of force? When for us shall the divine Dawns, spouses of Immortality, spread out their radiance by the Sun’s hue?
का । म॒र्यादा॑ । व॒युना॑ । कत् । ह॒ । वा॒मम् । अच्छ॑ । ग॒मे॒म॒ । र॒घवः॑ । न । वाज॑म् । क॒दा । नः॒ । दे॒वीः । अ॒मृत॑स्य । पत्नीः॑ । सूरः॑ । वर्णे॑न । त॒त॒न॒न् । उ॒षसः॑ ॥का । मर्यादा । वयुना । कत् । ह । वामम् । अच्छ । गमेम । रघवः । न । वाजम् । कदा । नः । देवीः । अमृतस्य । पत्नीः । सूरः । वर्णेन । ततनन् । उषसः ॥kā | maryādā | vayunā | kat | ha | vāmam | accha | gamema | raghavaḥ | na | vājam | kadā | naḥ | devīḥ | amṛtasya | patnīḥ | sūraḥ | varṇena | tatanan | uṣasaḥ