Sukta 4.5
किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् । गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म ॥
किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् । गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥
kíṃ no asyá dráviṇaṃ kád dha rátnam ví no voco jātavedas cikitvā́n | guhā́dhvanaḥ paramáṃ yán no asyá réku padáṃ ná nidānā́ áganma ||
What is for us his true wealth, what indeed his treasure? Declare it to us, O Jātavedas, thou who knowest. For we have come as seekers, not as mere arguers, to that highest step hidden in the cave of the path—his radiant station.
किम् । नः॒ । अ॒स्य । द्रवि॑णम् । कत् । ह॒ । रत्न॑म् । वि । नः॒ । वो॒चः॒ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् । गुहा॑ । अध्व॑नः । प॒र॒मम् । यत् । नः॒ । अ॒स्य । रेकु॑ । प॒दम् । न । नि॒ऽदा॒नाः । अग॑न्म ॥किम् । नः । अस्य । द्रविणम् । कत् । ह । रत्नम् । वि । नः । वोचः । जातवेदः । चिकित्वान् । गुहा । अध्वनः । परमम् । यत् । नः । अस्य । रेकु । पदम् । न । निदानाः । अगन्म ॥kim | naḥ | asya | draviṇam | kat | ha | ratnam | vi | naḥ | vocaḥ | jāta-vedaḥ | ci kitvān | guhā | adhvanaḥ | paramam | yat | naḥ | asya | reku | padam | na | ni-dānāḥ | aganma