Sukta 4.5
ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम् । त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम् ॥
ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दम् । त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्याम् ॥
ṛtáṃ vóce námasā pṛcchyámānas tavā́śasā jātavedo yád īdám | tvám asyá kṣayasi yád dha víśvaṃ diví yád u dráviṇaṃ yát pṛthivyā́m ||
I speak the R̥ta with reverence, questioning in the hope that is thine, O Jātavedas, about this (mystery). For thou dwellest as the master of it all—whatever is in heaven, and whatever wealth of being is on earth.
ऋ॒तम् । वो॒चे॒ । नम॑सा । पृ॒च्छ्यमा॑नः । तव॑ । आ॒ऽशसा॑ । जा॒त॒ऽवे॒दः॒ । यदि॑ । इ॒दम् । त्वम् । अ॒स्य । क्ष॒य॒सि॒ । यत् । ह॒ । विश्व॑म् । दि॒वि । यत् ऊँ॒ इति॑ । द्रवि॑णम् । यत् । पृ॒थि॒व्याम् ॥ऋतम् । वोचे । नमसा । पृच्छ्यमानः । तव । आशसा । जातवेदः । यदि । इदम् । त्वम् । अस्य । क्षयसि । यत् । ह । विश्वम् । दिवि । यत् ऊँ इति । द्रविणम् । यत् । पृथिव्याम् ॥ṛtam | voce | namasā | pṛcchyamānaḥ | tava | āśasā | jāta-vedaḥ | yadi | idam | tvam | asya | kṣayasi | yat | ha | viśvam | divi | yat oṃ iti | draviṇam | yat | pṛthivyām